|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.231. अध्यायः 231
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति सर्यस्यापि कालनियामकेश्वरनियम्यत्वप्रतिपादकशक्रबलिसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-231-0x(6174)(74502)
पुनेरव तु सं शक्रः अहसन्निदमब्रवीत्।
निश्वसन्तं यथा गायं प्रत्याहाराय भारत॥ 12-231-1(74503)
यथज्ञानसहस्रेण ज्ञातिभिः परिवारितः।
लोकान्यतापयन्तर्वान्यास्यस्मानवितर्कयन्॥ 12-231-2(74504)
दृष्ट्वा सुकृष्णां चेमागयस्थामात्मनो बले।
ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि॥ 12-231-3(74505)
प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान्।
विनिपातमिमं चाद्य शोचस्याहो न शोचसि॥ 12-231-4(74506)
बलिरुवाच। 12-231-5x(6175)
`गर्वं हित्वा तथा मानं देवराज शृणुष्व मे।
मया च त्वाऽनुसद्भावं पूर्वमाचरितं महत्॥ 12-231-5(74507)
अवश्यकालपर्यायमात्मनः परिवर्तनम्।
अविदँल्लोकमाहात्म्यं-------॥' 12-231-6(74508)
अनित्यमुपलक्ष्येह कालपर्यायमात्मनः।
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्॥ 12-231-7(74509)
अन्तवन्त इमे देहा भूतानां च सुराधिप।
तेन शक्र न शोचामि नापराधादिदं मम॥ 12-231-8(74510)
जीवितं च शरीरं च जात्या वै सह जायते।
उभे सह विवर्धेते उभे सह विनश्यतः॥ 12-231-9(74511)
न हीदृशमहंभावमवशः प्राप्य केवलम्।
यदेवमभिजानामि का व्यथा मे विजानतः॥ 12-231-10(74512)
भूतानां निधनं निष्ठा स्रोतसामिव सागरः।
नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रधृत्॥ 12-231-11(74513)
ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः।
ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति॥ 12-231-12(74514)
बुद्धिलाभात्तु पुरुषः सर्वं तुदति किल्विषम्।
विपाप्मा लभते सत्वं सत्वस्थः संप्रसीदति॥ 12-231-13(74515)
ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः।
कृपणाः परितप्यन्ते तैरर्थैरभिचोदिताः॥ 12-231-14(74516)
अर्थसिद्धिमनर्थं च जीवितं मरणं तथा।
सुखं दुःखं फलं चैव न द्वेष्मि न च कामये॥ 12-231-15(74517)
हतं हन्ति हतो ह्येव यो नरो हन्ति कंचन।
उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः॥ 12-231-16(74518)
हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते।
अकर्ता ह्येव भवति कर्ता ह्येव करोति तत्॥ 12-231-17(74519)
को हि लोकस्य कुरुते विनाशप्रभवावुभौ।
कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः॥ 12-231-18(74520)
पृथिवी ज्योतिराकाशमापो वायुश्च पञ्चमः।
एतद्योनीनि भूतानि तत्र का परिदेवना॥ 12-231-19(74521)
महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः।
दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः॥ 12-231-20(74522)
सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा।
तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः॥ 12-231-21(74523)
दग्धमेवानुदहते हतमेवानुहन्यते।
नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः॥ 12-231-22(74524)
नास्य द्वीपः कुतः पारो नावारः संप्रदृश्यते।
नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन्॥ 12-231-23(74525)
यदि मे पश्यतः कालो भूतानि न विनाशयेत्।
स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते॥ 12-231-24(74526)
तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे।
बिभ्रतं गार्दभं रूपमागत्य परिगर्हसे॥ 12-231-25(74527)
इच्छन्नहं विकुर्यां हि रूपाणि बहृधाऽऽत्मनः।
विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे॥ 12-231-26(74528)
कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति।
कालेन विहितं सर्वं मा कृथाः शक्र पौरुषम्॥ 12-231-27(74529)
पुरा सर्वं प्रव्यथितं मयि क्रुद्धे पुरंदर।
`विद्रवन्ति त्वया सार्धं सर्व एव दिबौकसः॥' 12-231-28(74530)
अवैमि त्वस्य लोकस्य कर्मं शक्र सनातनम्।
त्वमप्येवमवेक्षस्व माऽऽत्मना विस्मगं गमः॥ 12-231-29(74531)
प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन।
कौमारमेव ते चित्तं तथैवाद्य यथा पुरा।
समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम्॥ 12-231-30(74532)
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः।
आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव॥ 12-231-31(74533)
नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः।
इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः॥ 12-231-32(74534)
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते।
एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे॥ 12-231-33(74535)
दृश्यते हि कुले जातो दर्शनीयः प्रतापवान्।
दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा॥ 12-231-34(74536)
दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते।
सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा॥ 12-231-35(74537)
कल्याणी रूपसंपन्ना दुर्भगा शक्र दृश्यते।
अलक्षणा विरूपा च सुभगा दृश्यते परा॥ 12-231-36(74538)
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम्।
यत्तमेवं गतो वज्रिन्यच्चाप्येवं गता वयम्॥ 12-231-37(74539)
न कर्म तव नान्येषां कुतो मम शतक्रतो।
ऋद्धिर्वाऽप्यथवा नर्द्धिः पर्यायकृतमेव तत्॥ 12-231-38(74540)
पश्यामि त्वां विराजन्तं देवराजमवस्थितम्।
श्रीमन्तं द्युतिमन्तं च गर्जमानं ममोपरि॥ 12-231-39(74541)
एवं नैव न चेत्कालो मामाक्रम्य स्थितो भवेत्।
पातयेयमहं त्वाऽद्य सवज्रमपि मुष्टिना॥ 12-231-40(74542)
न तु विक्रमकालोऽयं शान्तिकालोऽयमागतः।
कालः स्थापयते सर्वं कालः पचति वै तथा॥ 12-231-41(74543)
मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम्।
गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति॥ 12-231-42(74544)
द्वादशानां तु भवतामादित्यानां महात्मनाम्।
तेजांस्येकेन सर्वेषां देवराज धृतानि मे॥ 12-231-43(74545)
अहमेवोद्वहाम्यापो विसृजामि च वासव।
तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च॥ 12-231-44(74546)
संरक्षामि विलुम्पामि ददाम्यहमथाददे।
संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः॥ 12-231-45(74547)
तदद्य विनिवृत्तं मे प्रभुत्वममराधिप।
कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे॥ 12-231-46(74548)
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते।
पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया॥ 12-231-47(74549)
मासमासार्धवेश्मानमहोरात्राभिसंवृतम्।
ऋतुद्वारं वायुमुखमायुर्वेदविदो जनाः॥ 12-231-48(74550)
आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया।
`अनित्यपञ्चवर्षाणि षष्ठो दृश्यति देहिनाम्॥' 12-231-49(74551)
अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा।
`ततस्तानि न पश्यामि काले तमपि वृत्रहन्॥' 12-231-50(74552)
गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा।
अनादिनिधनं चाहुरक्षरं क्षरमेव च॥ 12-231-51(74553)
सत्त्वेषु लिङ्गमाविश्य निर्लिङ्गमपि तत्स्वयम्।
मन्यन्ते ध्रुवमेवैनं ये जनास्तत्त्वदर्शिनः॥ 12-231-52(74554)
`यमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा।
तं कालमिति जानीहि यस्य सर्वमिदं वशे॥' 12-231-53(74555)
भूतानां तु विषर्यासं कुरुते भगवानिति।
न ह्येतावद्भवेद्ग्राम्यं न यस्मात्प्रभवेत्पुनः॥ 12-231-54(74556)
गतिं हि सर्वभूतानामगत्वा क्व गमिष्यति।
यो धावता न हातव्यस्तिष्ठन्नपि न हीयते॥ 12-231-55(74557)
तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा।
आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम्॥ 12-231-56(74558)
ऋतून्मासार्धमासांश्च दिवसांश्च क्षणांस्तथा।
पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे॥ 12-231-57(74559)
मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा।
तं कालमिति जानीहि यस्य सर्वमिदं वशे॥ 12-231-58(74560)
बहूनीन्द्रसहस्राणि समतीतानि वासव।
बलवीर्योपपन्नानि यथैव त्वं शचीपते॥ 12-231-59(74561)
त्वामप्यतिबलं शक्र देवराजं बलोत्कटम्।
प्राप्ते काले महावीर्यः कालः संशमयिष्यति॥ 12-231-60(74562)
य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव।
मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम्॥ 12-231-61(74563)
यामेतां प्राप्य जानीषे राज्यश्रियमनुत्तमाम्।
स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति॥ 12-231-62(74564)
स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम्।
मां च लोला परित्यज्य त्वामगाद्विबुधाधिप॥ 12-231-63(74565)
मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि।
त्वामप्येवंविधं ज्ञात्वा क्षिप्रमन्यं गमिष्यति।
`कालेन चोदिता शक्र मा ते गर्वः शतक्रतो॥ 12-231-64(74566)
क्षमस्व कालयोगं तमागतं विद्धि देवप।
निर्लज्जश्चैव कस्मात्त्वं देवराज विकत्थसे॥ 12-231-65(74567)
सर्वासुराणामधिपः सर्वदेवभयंकरः।
जितवान्ब्रह्मणो लोकं को विद्यादागतं गतिम्॥' ॥ 12-231-66(74568)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकत्रिंशदधिकद्विशततमोऽध्यायः॥ 231॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-231-1 यथा नागं प्रव्याहाराय इति ध. पाठः॥ 12-231-11 निष्ठा परागतिः॥ 12-231-19 मनोऽपि पाञ्चभौतिकमित्यर्थः। भूतानि स्थूलसूक्ष्मशरीराणि॥ 12-231-22 दग्धं कालात्मनेश्वरेणाऽनुदहते वह्नयादिः। एवमग्रेऽपि॥ 12-231-26 ईक्ष्य दृष्ट्वा॥ 12-231-29 धर्मं वृद्धिहासवत्त्वम्॥ 12-231-30 प्रभव ऐश्वर्यम्। प्रभावस्तदाविष्करणाम्। नात्मसंस्थो नात्माधीनः। कौमारं बालस्येवाज्ञं तव चित्तम्॥ 12-231-33 शास्तुरीश्वरस्य॥ 12-231-36 सुभगा भाग्यवती॥ 12-231-38 नर्द्धिः ऋद्ध्यभावः। पर्यायः कालक्रमस्तेन कृतम्॥ 12-231-40 एवं मम गर्दभत्वादिकं नैव स्यादिति शेषः। नचेदित्यादि तत्रोपपत्तिः॥ 12-231-44 उद्वहासि मेधो भूत्वा सूर्यो भूत्वा शोषयामीति वार्थः। आपः अपः॥ 12-231-46 कालसैन्यं मासार्धमासादि॥ 12-231-47 पर्यायेण कालक्रमेण भुज्यन्ते पाल्यन्ते संहियन्ते वा॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|